तिरुपतिक्षेत्रे शृङ्गेरी जगद्गुरुश्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिनां जयन्त्युत्सवाचरणसन्दर्भे विद्यार्थिनां कृते स्पर्धाः (मार्च २०२६)

भगवान् सर्वमङ्गलाजानिः तरुणेन्दुशेखरः सनातनं वैदिकं धर्मं परिरक्षितुं जगद्गुरु श्रीशङ्कराचार्यरूपेण केरलेषु कालट्यामाविर्भूय प्रस्थानत्रयभाष्यरचनं औपनिषदाद्वैतसिद्धान्तप्रचारः चतुराम्नायपीठप्रतिष्ठापनादीनि स्वीयावतारकार्याणि यथावन्निर्वर्तयामास इति विजानन्त्येव समेऽप्यास्तिकाः । जगद्गुरुश्रीमच्छङ्करभगवत्पादाचार्यैः प्रतिष्ठापितेषु चतुर्षु आम्नायपीठेषु अभ्यर्हिततमं दक्षिणाम्नायशृङ्गेरीशारदापीठं अविच्छिन्नगुरुपरम्परया परिशोभते । तदिदं पीठं जगद्गुरुश्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिपादाः इतः माकिं सार्धशतवर्षपूर्वं त्रयस्त्रिंशत्तमाधिपतित्वेन अलञ्चक्रुः । ते च महास्वामिनः महीशूरमहासंस्थानस्य मुख्यास्थानविदुषां सत्प्रतिपक्षशतकोट्यादिग्रन्थप्रणेतॄणां सकलशास्त्रपारदृश्वनां श्रीकुणिगल् रामशास्त्रिणां पुत्रत्वेन अवतीर्णाः आसन् । महास्वामिनां कृपयैव वयं सर्वेऽपि अधुना भगवत्पादशङ्कराचार्याणां जनिभूमेः कालटीक्षेत्रस्य दर्शनभागधेयमुपलभामहे, वैशाखशुक्लपञ्चम्यां शङ्करजयन्तीम् अनुतिष्ठामः, भगवत्पादानां सर्वानपि ग्रन्थान् अध्येतुञ्च शक्नुमः । अत एव भगवत्पादविभूतिविशेषविशिष्टानां तेषां महिमानं तत्कृतलोकानुग्रहञ्च प्रत्यक्षतोऽवबुध्य श्रीमदादिशङ्करभगवत्पादाः एव पुनरेतेषां स्वरूपेन अवातरन्निति विभावयन्तः तत्कालीनाः विद्वद्धौरेयाः समेऽपि तान् “अभिनवशङ्कर” इति अन्वर्थेन आख्यानेन तुष्टुवुः । सम्प्रति दक्षिणाम्नायशृङ्गेरीशारदापीठाधीश्वराणां जगद्गुरुशङ्कराचार्यश्रीश्रीश्रीभारतीतीर्थमहास्वामिनां परमानुग्रहमवलम्ब्य तत्करकमलसञ्जाताः जगद्गुरुशङ्कराचार्यश्रीश्रीविधुशेखरभारतीमहास्वामिनः श्रीवेङ्कटेश्वरस्वामिदिव्यसान्निध्येन परिपूते तिरुमलतिरुपतिक्षेत्रे स्वीययात्रासन्दर्भे स्वपरापरगुरूणां जगद्गुरुश्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीमहास्वामिपादानां १६८ तम जयन्त्युत्सवं महता वैभवेन समाचरितुं निरचैषुः । तदनुसारं वेदशास्त्रमहासभा समायोजिता वर्तते । अस्मिन्नेव सन्दर्भे, महास्वामिनां चरित्रं तैः विरचितस्तोत्रक्रोडपत्रादिकं चाधिकृत्य विद्यार्थिनां कृते नैकविधस्पर्धानां आयोजनापि कृता । आसु स्पर्धासु तिरुपतिस्थराष्ट्रियसंस्कृतविश्वविद्यालय-श्रीवेङ्कटेश्वरवेदविश्वविद्यालय-वाराणसीस्थकाशीहिन्दूविश्वविद्यालय-मद्रपुरीस्थसंस्कृतमहाविद्यालय-शृङ्गगिरिस्थकेन्द्रीयसंस्कृतविश्वविद्यालयादीनां छात्राणां प्रवेशोऽपेक्ष्यते । अत्र च विजेतृभ्यः जगद्गुरुश्रीचरणानां करकमलाभ्यां आशीर्वादपुरस्सरविशिष्टपारितोषिकवितरणमपि सम्पत्स्यते ।


